|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.244. अध्यायः 244
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेण पार्वतींप्रति जरामरणतारणस्य निर्वाणैकसाध्यत्वोक्त्या तस्य ज्ञानैकसाध्यत्वप्रतिपादनेनेन्द्रियनिग्रहादिना वैराग्यस्य तत्कारणत्वोक्तिः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
महेश्वर उवाच।
अनुद्विग्नमतेर्जन्तोरस्मिन्संसारमण्डले।
शोकव्याधिजरादुःखैर्निर्वाणं नोपपद्यते॥
तस्मादुद्वेगजननं मनोऽवस्थानपं तथा।
ज्ञानं ते सम्प्रवक्ष्यामि तन्मूलममृतं हि वै॥ 13-244-1(91012)
शोकस्थानसहस्राणि भयस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम्॥ 13-244-3(91013)
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते।
अहो दुःखमिति ध्यायञ्शोकस्य पदमाव्रजेत्॥ 13-244-4(91014)
द्रव्येषु समतीतेषु ये शुभास्तान्न चिन्तयेत्।
ताननाद्रियमाणस्य शोकबन्धः प्रणश्यति॥ 13-244-5(91015)
सम्प्रयोगादनिष्टस्य विप्रयोगात्प्रियस्य च।
मानुषा मानसैर्दुःखैः संयुज्यन्तेऽल्पबुद्धयः॥ 13-244-6(91016)
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति।
सन्तापेन च युज्येत तच्चास्य न निवर्तते॥ 13-244-7(91017)
उत्पन्नमिह मानुष्ये गर्भप्रभृति मानवम्।
विविधान्युपवर्तन्ते दुःखानि च सुखानि च॥ 13-244-8(91018)
तयोरेकतरो मार्गो यद्येनमभिसंनमेत्।
सुखं प्राप्य न संहृष्येन्न दुःखं प्राप्य संज्वरेत्॥ 13-244-9(91019)
दोषदर्शी भवेत्तत्र यत्र स्नेहः प्रवर्तते।
अनिष्टेनान्वितं पश्येद्यथा क्षिप्रं विरज्यते॥ 13-244-10(91020)
यथा काष्ठं च काष्ठं च समेयातां महोदधौ।
समेत्य च व्यपेयातां तद्वज्ज्ञातिसमागमः॥ 13-244-11(91021)
अदर्शनादापतिताः पुनश्चादर्शनं गताः।
स्नेहस्तत्र न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम्॥ 13-244-12(91022)
कुटुम्बपुत्रदारांश्च शरीरं धनसञ्चयम्।
ऐश्वर्यं स्वस्तिता चेति न मुह्येत्तत्र पण्डितः॥ 13-244-13(91023)
सुखमेकान्ततो नास्ति शक्रस्यापि त्रिविष्टपे।
तत्रापि सुमहद्दुःखं न नित्यं लभते सुखम्॥ 13-244-14(91024)
सुखस्यान्तरं दुःखं दुःखस्यानन्तरं सुखम्।
क्षया निचयाः सर्वे पतनान्ताः समुच्छ्रयाः॥ 13-244-15(91025)
संयोगा *********** मरणान्तं च जीवितम्।
उच्छ्रयांश्च निपाताश्च दृष्ट्या प्रत्यक्षतस्त्रयम्।
अनित्यमसुखं चेति व्यवस्येत्सर्वमेव च॥ 13-244-16(91026)
अर्थानामार्जने दुःखमार्जितानां तु रक्षणे।
नाशे दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम्॥ 13-244-17(91027)
अर्थवन्तं नरं नित्यं पञ्चाभिघ्नन्ति शत्रवः।
राजा चोरश्च दायादा भूतानि क्षय एव च॥ 13-244-18(91028)
अर्थमेव ह्यनर्थस्य मूलमित्यवधारय।
न ह्यनर्थाः प्रबाधन्ते नरमर्तविवर्जितम्॥ 13-244-19(91029)
अर्थप्राप्तिर्महद्दुःखमाकिञ्चिन्यं परं सुखम्।
उपद्रवेषु चार्थानां दुःखं हि नियतं भवेत्॥ 13-244-20(91030)
धनलोभेन तृष्णाया न तृप्तिरुपलभ्यते।
लब्धाश्रयो विवर्धेत समिद्ध इव पावकः॥ 13-244-21(91031)
जित्वाऽपि पृथिवीं कृत्स्नां चतुःसागरमेखलाम्।
सागराणां पुनः पारं जेतुमिच्छत्यसंशयम्॥ 13-244-22(91032)
अलं परिग्रहेणेह दोषवान्हि परिग्रहः।
कोशकारः क्रिमिर्देवि बध्यते हि परिग्रहात्॥ 13-244-23(91033)
एकोऽपि पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति च।
एकस्मिन्नेव राष्ट्रे तु स चापि निवसेन्नृपः॥ 13-244-24(91034)
तस्मिन्राष्ट्रेऽपि नगरमेकमेवाधितिष्ठति।
नगरेऽपि गृहं चैकं भवेत्तस्य निवेशनम्॥ 13-244-25(91035)
एक एव प्रतिष्ठः स्यादावासस्तद्गृहेऽपि च।
आवासे शयनं चैकं निशि यत्र प्रलीयते॥ 13-244-26(91036)
शयनस्यार्धमेवास्य स्त्रियाश्चार्धं विधीयते।
तदनेन प्रसङ्गेन स्वल्पेनैव हि युज्यते॥ 13-244-27(91037)
सर्वं ममेति सम्मूढो बलं पश्यति बालिशः।
एवं सर्वोपयोगेषु स्वल्पमस्य प्रयोजनम्॥ 13-244-28(91038)
तण्डुलप्रस्थमात्रेण यात्रा स्यात्सर्वदेहिनाम्।
ततो भूयस्तरो योगो दुःखाय तपनाय च॥ 13-244-29(91039)
नास्ति तृष्णासमं दुःखं नास्ति त्यागसमं सुखम्।
सर्वान्कामान्परित्यज्य ब्रह्मभूयाय कल्पते॥ 13-244-30(91040)
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥ 13-244-31(91041)
न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कुष्णवर्त्मेव भूय एवाभिवर्धते॥ 13-244-32(91042)
अलाभेनैव कामानां शोकं त्यजति पण्डितः।
आयासविटपस्तीव्रः कामाग्निः कर्षणारणिः।
इन्द्रियार्थैश्च सम्मोह्य दहत्यकुशलं जनम्॥ 13-244-33(91043)
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः।
नालमेकस्य पर्याप्तमिति पश्यन्न मुह्यति॥ 13-244-34(91044)
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्॥ 13-244-35(91045)
इन्द्रियाणीन्द्रियार्थेषु नैव धीरो नियोजयेत्।
मनःषष्ठानि संयम्य नित्यमात्मनि योजयेत॥ 13-244-36(91046)
इन्द्रियाणां विसर्गेण दोषमृच्छत्यसंशयम्।
संनियम्य नु तान्येव ततः सिद्धिमवाप्नुयात्॥ 13-244-37(91047)
षण्णामात्मनि युक्तानामैश्वर्यं योऽधिगच्छति।
न च पापैर्न चानर्थैः संयुज्येत विचक्षणः॥ 13-244-38(91048)
अप्रमत्तः सदा रक्षेदिन्द्रियाणि विचक्षणः।
अरक्षितेषु तेष्वाशु नरो नरकमेति हि॥ 13-244-39(91049)
हृदि काममयश्चित्रो मोहसञ्चयसम्भवः।
अज्ञानरूढमूलस्तु विवित्सापरिषेचनः॥ 13-244-40(91050)
रोषलोभमहास्कन्धः पुरा दुष्कृतसारवान्।
आयासविटपस्तीव्रशोकपुष्पो भयाङ्कुरः॥ 13-244-41(91051)
नानासङ्कल्पपत्राढ्यः प्रमादात्परिवर्धितः।
महतीभिः पिपासाभिः समन्तात्परिवेष्टितः॥ 13-244-42(91052)
संरोहत्यकृतप्रज्ञे पादपः कामसम्भवः।
नैव रोहति तत्वज्ञे रूढो वा छिद्यते पुनः॥ 13-244-43(91053)
कृच्छ्रोपायेष्वनित्येषु निःसारेषु फलेषु च।
दुःखादिषु दुरन्तेषु कामयोगेषु का रतिः॥ 13-244-44(91054)
इन्द्रियेषु च जीर्यत्सु च्छिद्यमाने तताऽऽयुषि।
पुरस्ताच्च स्थिते मृत्यौ किं सुखं पश्यतासुखे॥ 13-244-45(91055)
व्याधिभिः पीड्यमानस्य नित्यं शारीरमानसैः।
नरस्याकृतकृत्यस्य किं सुखं मरणे सति॥ 13-244-46(91056)
सञ्चिन्वानं तमेवार्थं कामानामवितृप्तकम्।
व्याघ्रः पशुमिवारण्ये मृत्युरादाय गच्छति॥ 13-244-47(91057)
जन्ममृत्युजरादुःखैः सततं समभिद्रुतः।
संसारे पच्यमानस्तु पापान्नोद्विजते जनः॥ 13-244-48(91058)
उमोवाच। 13-244-49x(7664)
केनोपायेन मर्त्यानां निवर्त्येते जरान्तकौ।
यद्यस्ति भगवन्मह्यमेतदाचक्ष्व माचिरम्॥ 13-244-49(91059)
तपसा वा सुमहता कर्मणा वा श्रुतेन वा।
रसायनप्रयोगैर्वा केनात्येति जरान्तकौ॥ 13-244-50(91060)
महेश्वर उवाच। 13-244-51x(7665)
नैतदस्ति महाभागे जरामृत्युनिवर्तनम्।
सर्वलोकेषु जानीहि मोक्षादन्यत्र भामिनि॥ 13-244-51(91061)
न धनेन न राज्येन नोग्रेण तपसाऽपि वा।
मरणं नातितरते विना मुक्त्या शरीरिणः॥ 13-244-52(91062)
अश्वमेधसहस्राणि वाजपेयशतानि च।
न तरन्ति जरामृत्यू निर्वाणाधिगमाद्विना॥ 13-244-53(91063)
ऐस्वर्यं धनधान्यं च विद्यालाभस्तपस्तथा।
रसायनप्रयोगाद्वै न तरन्ति जरान्तकौ॥ 13-244-54(91064)
दानयज्ञतपःशीलरसायनविदोऽपि वा।
स्वाध्यायनिरता वाऽपि न तरन्ति जरान्तकौ॥ 13-244-55(91065)
देवदानवगन्धर्वकिन्नरोरगराक्षसान्।
स्ववशे कुरुते कालो न कालस्यास्त्यगोचरः॥ 13-244-56(91066)
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः।
स्रेयं प्रपद्यते ध्यानमजस्रं ध्रुवमव्ययम्॥ 13-244-57(91067)
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव।
आयुरादाय मर्त्यानामहोरात्रेषु सन्ततम्॥ 13-244-58(91068)
जीवितं सर्वभूतानामक्षयः क्षपयन्नसौ।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च॥ 13-244-59(91069)
यस्यां रात्र्यां व्यतीतायामायुरल्पतरं भवेत्।
गाधोदके मत्स्य इव किन्नु तस्य कुमारता॥ 13-244-60(91070)
मरणं हि शरीरस्य नियतं ध्रुवमेव च।
तिष्ठन्नपि क्षणं सर्वः कालस्यैति वशं पुनः॥ 13-244-61(91071)
न म्रियेरन्न जीर्येरन्यदि स्युः सर्वदेहिनः।
न चानिष्टं प्रवर्तेत शोको वा प्राणिनं क्वचित्॥ 13-244-62(91072)
अप्रमत्तः प्रमत्तेषु कालो भूतेषु तिष्ठति।
अप्रमत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते॥ 13-244-63(91073)
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्।
कोपि तद्वेद यत्रासौ मृत्युना नाभिवीक्षितः॥ 13-244-64(91074)
वर्षास्विदं करिष्यामि इदं ग्रीष्मवसन्तयोः।
इति बालश्चिन्तयति अन्तरायं न बुध्यति॥ 13-244-65(91075)
इदं मे स्यादिदं मे स्यादित्येवं मनसा नराः।
अनवाप्तेषु कामेषु ह्रियन्ते मरणं प्रति॥ 13-244-66(91076)
कालपाशेन बद्धानामहन्यहनि जीर्यताम्।
का श्रद्धा प्राणिनां मार्गे विषमे भ्रमतां सदा॥ 13-244-67(91077)
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम्।
फलानामिव पक्वानां सदा हि पतनाद्भयम्॥ 13-244-68(91078)
मर्त्यस्य किं धनैर्दारैः पुत्रैर्भोगैः प्रियैरपि।
एकाह्ना सर्वमुत्सृज्य मृत्योस्तु वशमन्वियात्। 13-244-69(91079)
जायामानांश्च सम्प्रेक्ष्य म्रियमाणांस्तथैव च।
न संवेगोस्ति चेत्पुंसः काष्ठलोसमो हि सः॥ 13-244-70(91080)
विनाशिनो ह्यध्रुवजीवितस्य
किं बन्धुभिर्मित्रपरिग्रहैश्च।
विहाय यद्गच्छति सर्वमेवं
क्षणेन गत्वा न निवर्तते च॥ 13-244-71(91081)
एवं चिन्तयतो नित्यं सर्वार्थानामनित्यताम्।
उद्वेगो जायते शीघ्रं निर्वाणस्य पुरस्सरः॥ 13-244-72(91082)
तेनोद्वेगेन चाप्यस्य विमर्शो जायते पुनः।
विमर्शो नाम वैराग्यं सर्वद्रव्येषु जायते॥ 13-244-73(91083)
वैराग्येण परां शान्तिं लभन्ते मानवाः शुभे।
मोक्षस्योपनिषद्दिव्यं वैराग्यमिति निश्चितम्॥ 13-244-74(91084)
एतत्ते कथितं देवि वैराग्योत्पादनं वचः।
एवं सञ्चिन्त्य सञ्चिन्त्य मुच्यन्ते हि मुमुक्षवः॥ ॥ 13-244-75(91085)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः॥ 244 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-244-18 दाराश्चोराश्चेति क.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|